यज्ञोपवीत- ब्रह्मग्रन्थि- उत्कल ब्राह्मण।
यज्ञोपवीतवर्णनम्
यज्ञोपवीतं त्रिसूत्रात्मकं शुभम्।
प्रत्येकसूत्रं त्रितन्तुमयं स्मृतम्॥
नवतन्तुसमायुतम् एवं परमपवित्रम्।
ब्रह्मग्रन्थियुक्तं हि यज्ञोपवीतम्॥
यज्ञोपवीत की ग्रन्थि को “ब्रह्मग्रन्थि” कहा जाता है। ब्रह्मग्रन्थि शब्द दो पदों से बना है - ब्रह्म + ग्रन्थि। इस प्रकार ब्रह्मग्रन्थि का शाब्दिक अर्थ हुआ -“ब्रह्म से सम्बन्धित पवित्र गाँठ। सनातन धर्मशास्त्र के अनुसार ब्रह्म के चार रूप हैं-वासुदेव, संकर्षण, प्रद्युम्न और अनिरुद्ध। इन्हें एक साथ “चतुर्व्यूह-रूप” कहा जाता है।
इस तत्त्व का उल्लेख श्रीमद्भागवतपुराण, विष्णुपुराण तथा पाञ्चरात्र आगम में मिलता है।
[पाञ्चरात्र आगम किसी एक लेखक की रचना नहीं है; यह भगवान नारायण से प्रकट आगमिक परम्परा है। भगवान् नारायण ने इस तत्त्वज्ञान का उपदेश पाँच रात्रियों में प्रदान किया; अतः इस आगमिक परम्परा को “पाञ्चरात्र” कहा जाता है।
आगम = परम्परागत दिव्य शास्त्र।]
चतुर्व्यूह-तत्त्व के अनुसार:-
भगवान श्री वासुदेव (Vasudeva) – परमब्रह्म का मूल प्रकट स्वरूप; शुद्ध चेतना।
श्री संकर्षण/श्री बलराम (Saṅkarṣaṇa) – ज्ञान तथा अहंकार-तत्त्व से संबद्ध।
श्री प्रद्युम्न (Pradyumna) – मन - इच्छा-शक्ति का तत्त्व।
श्री अनिरुद्ध (Aniruddha) – बुद्धि तथा जगत्-नियमन-शक्ति से संबद्ध।
चूँकि ये ब्रह्म के चतुर्व्यूहरूप हैं, अतः यज्ञोपवीत की ‘ब्रह्मग्रन्थि’ में इनका स्थान पूर्णतः उचित, युक्तिसंगत एवं शास्त्रसम्मत है। यदि ब्रह्मग्रन्थि में ब्रह्म के चतुर्व्यूहरूप-वासुदेव, संकर्षण, प्रद्युम्न एवं अनिरुद्ध-में से किसी एक का भी आवाहन न किया जाए, तो यह ब्रह्मग्रन्थि अपूर्ण रह जाती है। अतः इनकी उपेक्षा न केवल अनुचित, अपितु धर्मविरुद्ध भी है।
धर्मतत्त्व
धर्मः सत्यं च महाव्यवस्थितिः।
संसारमार्गे सततं सः गतिः॥
नित्यः स्वयं सिद्धः सुशुद्धनिर्मलः।
रूपं विवर्त्यापि न मुञ्चति मूलम्॥
युगे युगे सत्त्वमयः गुणात्मा।
सत्ये स्थितो धर्म एव हि ब्रह्म॥
तस्मात् सतां जीवनमार्गदर्शी।
धर्मः सनातनः मोक्षप्रदर्शी॥
★
धर्मानुशासनम्
(अनुशासनम्)
अनुशासनं धर्मस्य मूलम्।
तस्य अभावे भवति मूलच्छेदनं।
★
धर्मानुशासनम्
(अनुशासनम्)
अनुशासनं धर्मस्य मूलम्
तस्य अभावे अस्ति मूलच्छेदनं।
★
धर्मानुशासनम्
(अनुशासनम्)
अनुशासनं धर्मस्य मूलम्।
तद्विना पतनं निश्चितम्।
★
धर्म-अधर्म-निर्णयः
(मुक्तछन्दः)
ईश्वरसम्मतं यच्च शास्त्रसम्मतमेव च।
न्याययुक्तं हितकरं स एव कथ्यते धर्मः॥
ईश्वरविरुद्धं यच्च शास्त्रविरुद्धमेव च।
अन्याययुक्तमहितं स एव अधर्मः स्मृतः॥
धर्मस्य सहचरः सत्यः, अधर्मस्य सहचरी मिथ्या।
धर्मस्य सहचरः संस्कारः, अधर्मस्य तु कुसंस्कारः॥
धर्मस्य सहचरी विद्या, अधर्मस्य तु अविद्या।
धर्मस्य सहचरः रिपुजयः, अधर्मस्य तु षड्रिपवः॥
सत्ये स्थितो सदा धर्मः, मिथ्यायां स्थितोऽधर्मः॥
सनातनधर्मशास्त्रेषु एतत् सत्यं प्रकीर्त्यते बारम्बारम्॥
★
सत्यधर्मलक्षणम्।
स धर्मः परिगण्यः स्यात् यत्र सौहृददर्शनम्।
द्वेषहिंसाकामनानां यत्र नास्ति कदाचन॥
★
धर्मफलन्यायनीतिः
यत् धर्मः तत् फलम्-एषा श्रेष्ठा नीति:।
अधिकफलाभिलाष एव महादुर्नीति:।
यथाकर्म तथाफलं, तस्माद्भोगः प्रजायते।
भुक्ते फले क्षये जाते, सर्वं शून्यं प्रपद्यते॥
★
यज्ञोपवीत-ग्रन्थि-तत्त्वम्
यां ग्रन्थिं न धारयति ब्रह्मतत्त्वम्।
सा ग्रन्थिः नाममात्रा, न तु शुद्धतत्त्वम्॥
★
ब्रह्मग्रन्थिः-उपवीतं यज्ञोपवीतम्
(मुक्तछन्दः)
द्विजाः संधारयन्ति ब्रह्मग्रन्थिमुपवीतरूपं ब्रह्मसूत्रम्।
न तत्र ब्रह्मांशः, कथं तद्भवेत् ब्रह्मसूत्रम्?॥
यत्र ब्रह्मग्रन्थिरस्ति, न तु ब्रह्मांशोऽप्यिति धर्ममतम्।
शास्त्रज्ञा गुरवो ब्रुवन्त्वेतत्-किमेतत् धर्मसम्मतम्?॥
★
ब्रह्मग्रन्थिः-उपवीतं यज्ञोपवीतम्
(मुक्तछन्दः)
द्विजाः संधारयन्ति ब्रह्मग्रन्थिम् उपवीतरूपं ब्रह्मसूत्रम्।
न तत्र ब्रह्मांशः, कथं तद् भवेत् ब्रह्मसूत्रम्?॥
यत्र ब्रह्मग्रन्थिः अस्ति, न तु ब्रह्मांशोऽपि-इति धर्ममतम्।
शास्त्रज्ञा गुरवो ब्रुवन्तु एतत्-किम् एतत् धर्मसम्मतम्?॥
★
पञ्चदैवता-स्वरूपवर्णनम्
जगन्नाथं बलभद्रं च प्रद्युम्नं च अनिरुद्धम्।
परमात्मिकां प्रकृतिं च सृष्टेः पञ्चदैवतानि प्रथमम्॥
एतदतिरिक्तं सर्वेषु गृहगृहेषु पञ्चदेवताः।
ते स्वस्थानवर्तिनः सन्ति पञ्चदेवा इति स्मृताः॥
अज्ञानिनां मिथ्याप्रचारः
(ब्रह्मतत्त्वे अज्ञानम्)
अज्ञानी मूर्खा न जानन्ति श्रीबलभद्रम्।
श्रीशेषनागं बलभद्रनाम्ना कुर्वन्ति वर्णनम्॥
ते श्रीप्रद्युम्नं च श्रीअनिरुद्धं च न जानन्ति।
महाज्ञानी इति स्वयम् लोके प्रचारयन्ति॥
अज्ञानं ब्रह्मतत्त्वे, अज्ञानं सिद्धियोगशास्त्रे।
मिथ्याज्ञानं ते लोकेऽस्मिन् प्रचारयन्ति गुरुरूपे॥
ॐ परब्रह्मणे नमः।
चतुर्व्यूहरूपिणं परब्रह्माणम् आवाहयामि।
---------------------------------------------------------------------------------------------------------------------------
धर्मतत्त्व
धर्मः सत्यं च महाव्यवस्थितिः।
संसारमार्गे सततं सः गतिः॥
नित्यः स्वयं सिद्धः सुशुद्धनिर्मलः।
रूपं विवर्त्यापि न मुञ्चति मूलम्॥
युगे युगे सत्त्वमयः गुणात्मा।
सत्ये स्थितो धर्म एव हि ब्रह्म॥
तस्मात् सतां जीवनमार्गदर्शी।
धर्मः सनातनः परब्रह्मरूपः॥
उत्कल ब्राह्मण।
उत्कल राज्य (ओड़िशा) के ब्राह्मणों को "उत्कल ब्राह्मण" कहते हैं। उत्कल ब्राह्मण, पंच गौड़ ब्राह्मणों में से एक हैं। ये वेद, पुराण, श्रीमद्भागवत गीता, और अन्य धार्मिक ग्रंथों के अध्ययन एवं शिक्षण में निपुण होते हैं। उत्कल ब्राह्मण समाज में शास्त्री, विद्वान, पुजारी और शिक्षक के रूप में महत्वपूर्ण भूमिका निभाते हैं। ऐतिहासिक रूप से, उत्कल ब्राह्मणों का योगदान उत्कल राज्य (ओडिशा) के प्रसिद्ध मंदिरों में विशेष रूप से उल्लेखनीय रहा है, जिनमें जगन्नाथ पुरी मंदिर, बिरजा मंदिर (जाजपुर) और अन्य प्रतिष्ठित मंदिर शामिल हैं।
उत्कल ब्राह्मणों की प्रमुख उपाधियाँ
इस समुदाय के अंतर्गत विभिन्न पदवियाँ पाई जाती हैं, जिनमें प्रमुख हैं:
मिश्र, नंद, महापात्र, पंडा, दाश, होता, सतपथी, महांती/महंती, सिंह चौधरी, सिंह बाबू, सिन्हा बाबू, सिंह महापात्र, सिन्हा महापात्र, सन्निग्रही, संगिरि, शर्मा, षडंगी, सारंगी, आचार्य, भट्टमिश्र, बिशी, चैनी, दुबे, द्विवेदी, दास, दंडपाठ, दासचक्रवर्ती, दास महापात्र, त्रिपाठी, तिवारी, कर, गोस्वामी, रथ, रथ शर्मा, पट्टाजोशी, पाठक, धरशर्मा, धर, दीक्षित, मोहंती, पात्र, पात्री, पाणिग्रही, पाढ़ी, पति, शतपथी, पाइन, पानी, पुरोहित, पुजारी, प्रहराज, लायेक, नाथ, नायक, राजगुरु, वेदी, घंटाएत, चौधरी, जोशी, कर, उद्गाता, सिंगारी। महांती/महंती (पश्चिम बंगाल में पाए जाते हैं) मोहंती/महंती (ओडिशा में)।
उत्कल ब्राह्मण अपनी धार्मिक एवं सांस्कृतिक परंपराओं को संरक्षित रखते हुए समाज में ज्ञान और आध्यात्मिकता का प्रचार-प्रसार करते हैं। उत्कल ब्राह्मण के बारे में अधिक जानकारी के लिए नीचे दिए गए लिंक पर क्लिक करें।
भारतवर्षस्य दिव्यपुण्यक्षेत्रवर्णनम्
भारतवर्षस्य मध्ये श्रीबदरिकाश्रमं तपोभूमिक्षेत्रम्।
अस्यां पुण्यभूमौ श्रीअयोध्यापुरं धर्ममर्यादाक्षेत्रम्॥
भारतवर्षस्य मध्ये श्रीवृन्दावनधामं प्रेमभक्तिक्षेत्रम्।
अस्यां पवित्रभूमौ दक्षिणदेशः शास्त्रसंगीतक्षेत्रम्॥
भारतवर्षस्य मध्ये श्रीद्वारकाधामं श्रीद्वारकाधीशक्षेत्रम्।
अस्यां पुण्यभूमौ उत्कलदेशः सत्यज्ञानकलाक्षेत्रम्॥
एतस्यां पुण्यभूमौ उत्कलदेशे पवित्रं पुरुषोत्तमक्षेत्रम्।
यत्र श्रीजगन्नाथस्य तस्यांशकलेवरस्य लीला दृश्यते नित्यं॥
💓
श्रीजगन्नाथ-बलभद्र-शेषनागतत्त्ववर्णनम्
जगन्नाथः परमब्रह्म आदिदेवः सनातनः।
बलभद्रः तस्य अंशः, जगन्नाथप्राणरूपः॥
शेषनागः अनन्तदेवः बलभद्रांशस्वरूपः।
विश्वभारधरणहारः आदिदेवः सनातनः॥
★
श्रीजगन्नाथतत्त्वप्रकाशः
(मुक्तछन्दः)
एकः ब्रह्म महाप्रभुः श्रीजगन्नाथः जगदीश्वरः॥
सर्वाधिकारः तस्यैव, नान्यः कश्चित् ईश्वरः॥
मा कुरुत अन्यायं, मा कुरुत अनधिकारकर्म।
अनधिकारिणः सर्वे लभन्ते धर्मतः दण्डम्॥
अहङ्कारो न रोचते, न रोचते बलदर्पणम्।
विनयः प्रीतिकर्ता स्यात्, तदेव ईश्वराभिलषितम्॥
सर्वेश्वरं महाप्रभुं श्रीजगन्नाथं भक्तवत्सलम्॥
स्वांशैः सह महाप्रभुः करोति जगतः सञ्चालनम्॥
भक्तानुग्रहकर्ता सः लीलया धृतवान् मनुष्यताम्।
लोकहितार्थम् उद्दिश्य दर्शयति अद्भुतं चरितम्॥
★
भक्तवत्सलत्वम्
नाहं स्वतन्त्रः अत्र, भक्ताधीनः सदा ह्यहम्।
भक्तेषु मे स्थिता प्रीतिः, ते मे सदा प्राणसमाः ॥
अहम् अस्वतन्त्रः नित्यं, भक्तपराधीन एव च।
स्नेहबन्धेन बद्धोऽस्मि, प्रेम्णा परिकर्षितः॥
न मे स्वार्थः कदाचित् स्यात्, भक्तानां तु सुखं मम।
तेषां विनाशे दुःखं मे, तेषां हर्षे सुखं मम॥
यथा जननी पुत्रे स्वप्राणान् अपि अर्पयेत्।
तथाहं स्वात्मानं भक्तजनाय ददाम्यहम्॥
★
भक्तवत्सल्य-स्तोत्रम् (2)
नाहं स्वतन्त्र एवात्र, भक्ताधीनः सदा ह्यहम्।
भक्तेषु स्थिता मम प्रीति, ते मम प्राणसखा परमः॥
ये भक्ताः शरणं यान्ति, तेषां रक्षां करोम्यहम्।
नाहं जहामि तान् भक्तान्, मयि ते नित्यशरणम्॥
★
अनन्तो हरिः, अनन्ता हरिकथा,
अनन्तानि शास्त्राणि॥
(मुक्त छंद )
अनन्तो हरिरव्यक्तो लीलाश्चास्यानन्ताः।
शास्त्राण्यप्यनन्तानि कथाश्चास्यानन्ताः॥
अनन्तोऽस्य गुणो दिव्यो नास्ति तस्य परिसीमना।
न कश्चिज्जानाति पूर्णं तस्य दिव्यं चरितं नरजनाः॥
नादिर्न चान्तो यस्य प्रभोर्नित्यविभूतिषु।
अनन्तेऽस्मिन् हरेः कीर्तिः प्रवहत्येव मे चेतसि॥
निष्कामकर्मणा नित्यं निष्कामधर्मपालनात्।
लभ्यते स हरिः साक्षान्निष्कामभावनात्॥
यज्ञोपवीतम्
शृणुत द्विजगणाः सर्वे सत्यं वचनमुत्तमम्।
यज्ञोपवीतं परमं पवित्रं शास्त्रसम्मतम्॥
नाभेरधः न यज्ञोपवीतं पतितं स्यात् कदाचन।
धर्मार्थं धारयेत् नित्यं शास्त्रदृष्ट्या द्विजोत्तमः॥
यज्ञोपवीतग्रन्थितत्त्वम्
मुक्त छंदः
यां ग्रन्थिं न धारयति ब्रह्मतत्त्वम् ।
तां ग्रन्थिं मन्यते न शुद्धतत्त्वम्।
यां ग्रन्थिं न धारयति ब्रह्मतत्त्वम् ।
तां ग्रन्थिं मन्यते नाममात्राम् ॥
यज्ञोपवीतग्रन्थितत्त्वम् (सूक्तयः)
१
यज्ञोपवीतस्य ग्रन्थिर्न केवलं सूत्रबन्धनम्।
ब्रह्मस्मृतिधारिणी सा धर्ममार्गस्य चिह्नम्॥
२
बाह्यसूत्रं यदि भवेत् न तु ब्रह्मपरायणम्।
तदा यज्ञोपवीतं स्यात् केवलं नाममात्रकम्॥
३
ग्रन्थौ तत्त्वं यदि नास्ति सूत्रं भवति व्यर्थकम्।
ब्रह्मज्ञानविहीनस्य हि धार्यते चिह्नमात्रम्॥
ॐ परब्रह्मणे नमः।
चतुर्व्यूहरूपिणं परब्रह्माणम् आवाहयामि।
भक्तरक्षणं धर्मोपदेशः
(मुक्तछन्दः)
शृणुत भक्तजनाः, एतत् सनातनं वचनम्।
भक्तात्मनः विपदि तस्य सह कुरु अवस्थानम्।
सान्त्वनां प्रदेहि सदा, न त्यज एनं एकाकिनम्।
निन्दकदुष्टानां कुरु उचितं प्रत्युत्तरम्।
भक्तात्मनः विपदि तं मा त्यज कदाचन।
ब्रह्मादेशं मन्यस्व, तस्य सदा कुरु पालनम्॥
★
भक्तभगवतोः इह लीला
भक्तः सदा सहनशीलः सदा सामाजिकः।
भक्तरक्षकः भगवान् न भवति अशास्त्रिकः।
भक्तधर्मरक्षणार्थं करोति असुरसंहारम्।
भगवतः एतत् इह दैवकर्म सदा अनन्तम्॥
★
भगवदवतारवर्णनम्
भगवतोऽवतारा बहुधा प्रकीर्तिताः,
धर्मसंस्थापनार्थं लोकेऽवतारिताः॥
तेषां तत्त्वरहस्यं गूढं न सुलभं बोधितुम्,
भक्त्या तु दिव्यतत्त्वं हृदि स्फुरति नित्यम्॥
चतुर्व्यूहेषु रूपेषु वासुदेवः परः स्मृतः,
संकर्षणः प्रद्युम्नोऽनिरुद्धश्च अंशावताराः॥
एते हि व्यूहभेदाः दिव्यरूपप्रकाशकाः,
भगवतः स्वरूपस्य भिन्नांशाः प्रकाशकाः॥
तेषामप्यंशरूपाणि लोके विभान्ति नित्यम्,
तानि भगवतः शक्त्या विश्वं बिभ्रति सततम्॥
अन्ये तु गुणावतारा जगति विख्याताः,
सत्त्वादिगुणभेदेन रूपाणि विभ्रताः॥
तेषामपि स्वरूपाणि लोके विभान्ति हि,
लीलया भगवान् विश्वं नित्यं बिभर्ति हि॥
★
भगवत्प्रसन्नता
(मुक्तछन्दः)
यः भक्तः स्तौति भगवतः चतुर्व्यूहरूपम्,
तस्मै भगवान् भवति प्रसन्नः सदा अत्यन्तम्॥
यः भक्तः स्तौति पार्श्वदेवतानां समरूपम्,
तस्मै भगवान् भवति प्रसन्नः सदा सर्वाधिकम्॥
एतदेव हि परमं सत्यं नित्यम्,
सर्वयुगेषु सर्वकालेष्वपरिवर्तनीयम्॥
सर्वकालेष्वपरिवर्तनीयम्=सर्व+ कालेषु + अपरिवर्तनीयम्
★
अवतारागमन-प्रस्थानस्य गूढत्वम्।
जगन्नाथ एव स्वकं जानात्यवतारसमागतम्।
मर्त्यलोकात् प्रस्थानं तस्यैवास्ति सुबोधितम्॥
न ब्रह्मा न च वेदाश्च न देवासुरमानवाः।
केवलमनुमानेन महिमा तस्य अनुभव्यते॥
★
ब्रह्मतत्त्वविहीनग्रन्थजीवगुरुवर्णनम्
(ब्रह्मतत्त्वमहिमा)
यस्य ग्रन्थे न विद्यते ब्रह्मतत्त्वं,
तत् शास्त्रं न भवति पूर्णसत्यम्॥
यो जीवः न जानाति ब्रह्मतत्त्वं,
स जीवः न जानाति पूर्णतत्त्वम्॥
यो जीवः न जानाति ब्रह्मतत्त्वम्,
स न गुरुः न पण्डितः शास्त्रमतम्॥
यो जीवः न जानाति ब्रह्मतत्त्वम्,
रुद्धमेव भवति तस्य मोक्षद्वारम्॥
★
अन्नब्रह्मतत्त्वश्लोकः
अन्नं ब्रह्मेति श्रुतिषु सनातनम्,
भोजनं यज्ञरूपमुदाहृतम्॥
शुद्धे मनसि यत्र हि शुद्धमन्नम्,
तत्रैव वसति परं ब्रह्म नित्यम्॥
★
सत्यधर्ममहिमा
(व्यक्तिकेन्द्रितभाव)
सत्यं वचनं, सत्यस्य पालनम्।
महान् धर्मः, महान् अर्पणम्।
सत्यपथि सत्ये स्थितिः,
स दुर्लभः, सः निर्मलः॥
★
सत्यधर्ममहिमा
(तत्त्वप्रधानभाव)
सत्यं वचनं, सत्यस्य पालनम्।
महान् धर्मः, महान् अर्पणम्।
सत्यपथि सत्ये स्थितिः,
तत् दुर्लभं, तत् निर्मलम्॥
💓
भक्त–भगवान्–भावः
भक्तः महाभावग्राही, भगवान् च तथैव सदा।
प्रेमसम्बन्धो महाभावः, स एव तयोः सदा॥
★
सत्यस्य मौनम्
(पृथिव्याः यथार्थता)
(मुक्तछन्दः)
न कश्चित् श्रोतुमिच्छति, न कश्चित् सत्यमिच्छति।
सर्वे वक्तुमिच्छन्ति, स्वकथां स्वनाम च॥
न कश्चित् श्रोतुमिच्छति, सर्वे मानगर्विताः।
स्वार्थे मग्नाः जनाः सर्वे, परवाक्यं न शृण्वन्ति॥
आपदि सम्प्राप्तायां तु, सत्यं ज्ञातुमिच्छन्ति।
पूर्वं तु न कश्चिदेव, कदाचन तत्त्वं वेत्ति॥
सर्वे यशःप्रचारेण, स्वनाम विस्तारयन्ति।
सत्यं तु नाङ्गीकुर्वन्ति, परवाक्यं न शृण्वन्ति॥
सत्यं तिष्ठति मौनेन, गर्वेणावृतचेतसाम्।
एषा लोके कठोरेव, पृथिव्याः यथार्थता॥
यः शुद्धात्मा स एवैतत्, जन्मनैव वेत्ति हि।
अन्ये मोहान्धचेतसः, न जानन्ति एव हि॥
★
सत्योपासना
पूजायां नास्ति कालोऽत्र, न घंटानिनदः आवश्यकः।
न मन्त्रजपो न बाह्यकृत्यं, भाव एव ह्यावश्यकः॥
न पश्यति भगवान् द्रव्यं, न हेमावरणभूषणम्।
हृद्गूढभक्तिमेव पश्यति, शुद्धमानसपूजनम्॥
★
शङ्खनिनादः शङ्खध्वनिः
(मुक्तछन्दः)
शङ्खनिनादः परं पवित्रं, शुभदं च आनन्दवर्धकम्।
अधर्मशोकभीतानां, तमसां च विनाशकम्॥
शङ्खध्वनिः शुभो भवतु, नरनार्योः सम्मिलनम्।
विष्णोः पूजाविधौ पुण्यं पापनाशनम् उत्तमम्॥
न स्त्री न च नरः भेदः धर्मे सत्ये च कर्मणि।
शङ्खध्वनिः सदा कार्यः नारायणप्रेमणि॥
★
शङ्खनिनादः शङ्खध्वनिः
(मुक्तछन्दः)
शङ्खनिनादः परं पवित्रं, शुभदं चानन्दवर्धकम्।
अधर्मशोकभीतानां तमसां च विनाशकम्॥
शङ्खध्वनिः शुभो भवतु, नरनार्योः सम्मिलनम्।
विष्णुपूजाविधौ पुण्यं पापनाशनमुत्तमम्॥
न स्त्री न च नरः भेदः धर्मे सत्ये च कर्मणि।
शङ्खध्वनिः सदा कार्यः नारायणप्रेमणि॥
★
शङ्खनादमहिमा।
(मुक्तछन्दः)
उद्घोषोऽयं शङ्खनादस्य दैविको पुण्यवर्धनः।
नारायणस्य प्रीत्यर्थम् उद्घोषयेत् शङ्खनादम्॥
नास्ति धर्मे स्त्रीपुंसोर्भेदभावः कदाचन।
सर्वे समत्वभावेन कुर्वन्तु शङ्खनादम्॥
★
चतुर्व्यूह‑ब्रह्म‑गायत्री‑मन्त्रः
ॐ चतुर्व्यूहरूपं विद्महे
तुलसीपवित्रं धीमहि।
तन्नो ब्रह्म प्रचोदयात्॥
★
शुद्धस्वरूप‑ब्रह्म‑गायत्री‑मन्त्रः
(ब्रह्म-गायत्री-मन्त्रः)
ॐ चतुर्व्यूहरूपं विद्महे
शुद्धस्वरूपं धीमहि।
तन्नो ब्रह्म प्रचोदयात्॥
★
भगवान
यः स्वयंसम्पूर्णः स्वयंसिद्धः स्वातन्त्र्येण संस्थितः।
स एव परमात्मा पूर्णब्रह्म स श्रीभगवान् स्मृतः॥
भगवान
यः स्वयंसम्पूर्णः स्वयंसिद्धः स्थितः स्वातन्त्र्येण।
स एव परमात्मा पूर्णब्रह्म स हि कथ्यते श्रीभगवान्॥
★
भगवतत्त्वविवेचनम्
यः स्वयंसम्पूर्णः स्वयंसिद्धः स्थितः स्वातन्त्र्येण,
स एव परमात्मा पूर्णब्रह्मेति कथ्यते भगवान्॥
यः सर्वज्ञः सर्वशक्तिमान् जगतः कारणं नियन्ता च,
स ईश्वरः स एव भगवान् परमब्रह्मादिदेवः सर्वेश्वरः॥
★
निराकार ब्रह्म-साकारब्रह्म साधना
अरूपं शान्तमदृश्यं, मनसोऽपि परं तत्त्वम्।
न रूपं न च नामास्ति, केवलं ब्रह्म नित्यम्॥
न दृश्येन्द्रियगोचरे, न तिष्ठति तत्र चित्तं।
चलति विषयमार्गेषु, छायास्वेव वारं वारं॥
कथं गृह्णात्यनन्तं, यः जानाति स्पर्शदृशा।
देहबद्धो हि जीवः, समीपं वाञ्छति सदा॥
तस्मात् सन्तो वदन्ति, सौम्यया वाचा पुनः।
रूपः सेतुर्भवेद् हृदि, भक्तेर्मार्गप्रदर्शकः॥
नामरूपे समारभ्य, चित्तं शान्तिं निगच्छति।
सेवया प्रेमयुक्त्या, तदेकत्वं प्रपद्यते॥
न केवलं शिलामात्रं, प्रतिमा भावसूचिका।
अरूपस्य प्रवेशाय, सा भवेदेव साधिका॥
रूपादारभ्य मार्गः, अरूपे परिणीयते।
भयसंशयविहीनः, आत्मा तत्रैव लीयते॥
तस्मात् रूपं समाश्रित्य, भावभक्तिं विवर्धय।
ततः शान्ते मनसि, ब्रह्मस्पर्शोऽनुभूयते॥
★
सत्यः
यः स्वयंसम्पूर्णः स्वयंसिद्धः स्वातन्त्र्येण स्थितः,
स एव परमात्मा परं ब्रह्म भगवान् हि सत्यम्॥
★
सत्यः
यः स्वयं-संपूर्णः स्वयं-सिद्धः स्वातन्त्र्येण स्थितः,
स एव परमात्मा पूर्ण-ब्रह्म स एव भगवान् हि सत्यम्॥
★
सनातनधर्मस्य प्रथमः सोपानः
(The First Step of Sanatana Dharma)
प्रथमं सत्पुरुषो भव, ततः सर्वकर्माण्याचर।
कामक्रोधलोभवर्जितः, दयामार्गे सदा स्थितः॥
हत्याहिंसाविनिर्मुक्तः, धर्ममार्गे दृढस्थितः।
लोकहिते सदा युक्तः, सत्ये नित्यं प्रतिष्ठितः॥
दयाशीलसमायुक्तः, न्यायमार्गे व्यवस्थितः।
एषः सनातनधर्मस्य, प्रथमः सोपानः स्मृतः॥
★
सनातनधर्मस्य द्वितीयः सोपानः
(The Second Step of Sanatana Dharma)
प्रथमं निष्कामकर्म स्यात्, द्वितीयं तत्त्वज्ञानार्जनम्।
तृतीयो भक्तियोगश्च, चतुर्थं आत्मप्रकाशकम्॥
कर्मयोगेन चित्तशुद्धिः, ज्ञानयोगेन ज्ञानार्जनम्।
भक्तियोगेन भक्तिप्राप्तिः, जीवहिते श्रेष्ठा गतिः॥
सर्वे मार्गाः लक्ष्यन्ते, लभ्यते मोक्षः स्यात्।
एषः सनातनधर्मस्य, द्वितीयः सोपानः स्मृतः॥
★
कर्मधर्मद्विपक्षेण जीवस्य गतिः
[ईश्वरप्राप्त्युपायः]
(मुक्तछन्दः)
यथा पक्षी द्वाभ्यां पक्षाभ्यां गच्छत्यन्यं स्थलम्।
तद्वज्जीवः कर्मधर्माभ्यां गच्छत्यन्यं जीवनपथम्॥
यथा ज्ञानबलात् पक्षी दृढविश्वाससंयुतः।
प्राप्नोति स्वप्रियं स्थानं निश्चलधिया युतः॥
तथा जीवः निष्कामकर्मधर्मपरायणः।
ज्ञानयोगेन संयुक्तः श्रद्धाभक्तिसमन्वितः॥
प्रेमभक्त्यानुसेवया प्राप्नोति परमं पदम्।
परमानन्दमाप्नोति ईश्वरस्य दिव्यं धाम॥
★
धर्मदुरुपयोग-धर्मदूषणम्
(मुक्तछन्दः)
यः करोति धर्मेण व्यापारं, तस्य जीवनं केवलं असारम्।
यः करोति धर्मेण दर्पं, स तु अज्ञानी मूर्खसमः॥
यः करोति लोकदर्शनार्थं धर्मं, तस्य धर्मः व्यर्थं कर्म।
यः इच्छति धर्मं नियन्तुं, स अज्ञानी एव मूर्खसमः॥
यः वदति धर्मं केवलं वचनेन, नाचरति कर्मणा किञ्चित्।
तस्य वचनं निरर्थकं ज्ञेयं, शुष्कवृक्षफलमिव निश्चितम्॥
यः धर्मनाम्ना करोति हिंसां, स्वार्थ-सिद्ध्यर्थमेव नित्यं।
स अधर्मी धर्मवेषधारी सन् लोकान् मोहयति-एतदेव सत्यं॥
धर्मो न केवलं शास्त्रं, न च केवलं व्रतपूजनम्।
यत्र भक्तिभावः सत्याचारश्च, स एव धर्मः शाश्वतः॥
★
धर्मप्रदूषणनिवारणम्
(मिथ्यैश्वरदोषः)
(मुक्तछन्दः)
ब्रह्मणा सृष्टाः जीवाः काले काले निर्मीयन्ते अनेकाः मिथ्यैश्वराः ।
ब्रह्मणं च अंशब्रह्मणं च न जानन्ति, मुखाद् हरिम् ईश्वरं वदन्ति ॥
ब्रह्मणा सृष्टाः एते जीवाः पुनः पुनः कुर्वन्ति धर्मस्य प्रदूषणं ।
भगवान् पूर्णब्रह्म एतत् पापं यथाकालं करोति मूलच्छेदं ॥
----------------------------------
ब्रह्मणा सृष्टाः जीवाः = ब्रह्मा द्वारा रचे गए जीव।
★
स्वयमेवेश्वरत्वभ्रमः
(मुक्तछन्दः)
ब्रह्मा रचयति विचित्रान् नरान्,
ये स्वयं वदन्ति “अहं नारायणः”।
न जानन्ति यथावत् ब्रह्मतत्त्वम्,
अज्ञानतः वदन्ति “स्वयमेव परमेश्वरः”॥
दर्शयन्ति शास्त्राणि, वदन्ति सत्यम्,
“अहमेव ईश्वरः, केवलं ममैव सत्यम्”।
वदन्ति “वयं ज्ञानी, वयं भगवान्”,
अन्ये सर्वे नश्वराः, ते अज्ञानिनः॥
★
अध्ययन-प्रचार-अध्यापन
अधिकारनीतिः
(मुक्तछन्दः)
सर्वेऽपि शास्त्रं पठितुं समर्हाः,
न जातिभेदो न च लिङ्गवर्जाः।
न जन्मना कश्चन वर्जनीयः,
सत्यस्य मार्गेऽधिकारयोग्यः॥
यो बोधयेद् अन्यजनं हि सम्यक्,
तस्यास्ति ज्ञानं यदि सुसम्यक्।
अज्ञानयुक्ता कथिता हि वाचः,
नयन्ति लोकान् विपथं भ्रंशम्॥
तस्मात् सनातनधर्मोऽयं ब्रूते,
न सर्व एवोपदिशन्ति शास्त्रे।
येषां तु ज्ञानं विशदं विमुक्तं,
ते एव लोकाय प्रदिशन्ति मार्गम्॥
★
शास्त्रार्थबोधयोग्यता
शास्त्रार्थबोधाय विवेकयुक्ता
सूक्ष्मा बुद्धिर्विज्ञानयुक्ता ।
युक्तिप्रधाना प्रबुद्धा बुद्धिः
तद्विना न सिद्ध्येत् गूढार्थगतिः॥
★
शास्त्राध्ययननीति।
गुरुपादाम्बुजयोगेन शास्त्रमध्येत न संशयः।
यथा प्रदीप्तदीपः तमो नाशयति तत्त्वतः॥
निहत्य मोहजालं गुरुः सत्यं तत्र न संशयः।
शास्त्रार्थसमीक्षया तेन मोक्षमार्गः प्रसस्तय॥
★
ज्ञानदाननीतिः - नियमः
(मुक्तछन्दः)
यो यावद् ज्ञानधारणसमर्थः स्यात्,
तस्य तावत् ज्ञानं स्वाभाविकं भवेत्।
यो यदा यावत् ज्ञानलाभयोगः स्यात्,
तस्मै तु ज्ञानदानमेव कर्तव्यम् सदैव॥
भिन्नोऽयं व्यवहारः सदाऽपि परिहर्तव्यः,
अनिष्टफलत्वात् स परिगृहीतः परिहर्तव्यः।
यः सदा ज्ञानकामः प्रणतः समर्थः प्रयत्नवान्,
तस्मैव ज्ञानं देयं नान्यस्मै कदाचन॥
एष नूनं संसारस्य नित्यो नियमः।
★
बालगोपालेन ईश्वरलाभः
(मुक्तछन्दः)
मानवो धर्मं कर्म च न जानन्नपि गृहे स्थापयति बालगोपालम्।
चिन्तयन्ति ते,बालगोपालस्य सेवया एव प्राप्स्यन्तीति परं पदं।
धर्मं वदति वारं वारं,ईश्वरप्राप्तौ प्रथमं शुद्धं मनोऽवश्यकम्।
निष्कामं कर्म,निष्कामो धर्मो,भक्तिर्भक्तसम्मानश्च प्रयोजनम्॥
★
सत्यज्ञानम्
सर्वस्य जगतः कर्ता, जीवनस्य परं पदम्।
आनन्दस्यैकनिधिः सः, ब्रह्मतत्त्वं सनातनम्॥
सर्वभूतधारकः देवः, जगत् पोषयते नित्यम्।
निःशब्दकृपायुक्तः सः, सर्वं ददाति निरन्तरम्॥
यत्र सर्वे प्रवाहाः स्युर्, लयं यान्ति निरन्तरम्।
रूपातीतं परं तत्त्वं, स्वप्नतुल्यं जगत्त्रयम्॥
यः जानाति हृदि स्वस्य तत्त्वमेतत् सनातनम्।
स एव ज्ञानवान् लोके, पूर्णत्वं लभते ध्रुवम्॥
★
उत्तमा योनि: तथा ज्ञानप्राप्तिः
(मुक्तछन्दः)
यः आत्मा वारं वारम् उत्तमां योनिम् आप्नोति,
सः जीवनकाले उत्तमं गुरुं प्राप्नोति।।
सः निश्चयेन ज्ञानवान् भवति।
☆
उत्तमा योनि: तथा ज्ञानप्राप्तिः
(मुक्तछन्दः)
यः आत्मा वारं वारं उत्तमां योनिं प्राप्नोति,
सः जीवन् एव उत्तमं गुरुम् प्राप्नोति।
सः निश्चयेन ज्ञानवान् भवति।
★
बालगोपालेन ईश्वरलाभः
(मुक्तछन्दः)
मानवोऽजानन् धर्मं कर्म च गृहे स्थापयति बालगोपालम्।
चिन्तयन्ति ते, बालगोपालस्य सेवया एव प्राप्स्यन्ति परं पदम्।
धर्मं वदति वारं वारम्, ईश्वरप्राप्तौ शुद्धं मनः प्रथमम् आवश्यकम्।
निष्कामं कर्म, निष्कामो धर्मः,भक्तिः भक्तसम्मानश्च परमं साधनम्॥
★
स्वप्न-मरण-आत्मतत्त्वम्
(मुक्तछन्दः)
यदा निर्गच्छत्यात्मा देहात् न कश्चिद् वेद तदा।
न कम्पः नापि चिह्नः स्यात् शान्ते देहे स्थिते सदा॥
निशब्दं याति दूरं स यत्र प्राणो न गच्छति।
अदृष्टोऽज्ञातमार्गेण मृत्यु-पन्थानमृच्छति॥
पुनर्यदा प्रविशत्येष देहं मृत्तिकामयं पुनः।
तदा वेदना समुत्पन्ना चेतना जायते निश्चितः॥
स्पन्दते जागरूकं देहं जीवनं स्वं प्रपद्यते।
वेदना सूचयत्येव आत्मनः सन्निधिं ध्रुवम्॥
अतः मूढमिदं मनो न सर्वं सत्यमीक्षते।
स्वप्नमायाविलासेन भ्रान्तिमेव प्रसूयते॥
विवेकेन विचिन्त्यैतत् सत्यं मिथ्यां च भेदय।
क्षणभङ्गुरेऽस्मिन् लोके आत्मयात्रां निरीक्षय॥
★
जन्ममृत्युः (सत्यम्–मिथ्या)
(मुक्तछन्दः)
जीवस्य लोकेऽस्मिन् जीवनं पूर्णतया मिथ्या।
मरणानन्तरं सः जानाति लोकेऽस्मिन् सत्यम्॥
जीवस्य लोकेऽस्मिन् जीवनं केवलं स्वप्नम्।
मरणानन्तरं तत् भवति जाग्रतावस्थायां स्थितम्॥
तस्मात् जीवने सदा कर्तव्यं सदाचारं च सत्कर्म॥
अन्यथा मरणानन्तरं प्राप्नोति महद्दुःखकष्टम्॥
☆
जीवस्य मनसः वचनम्
(जीवमनःकथा)
मुक्तछन्द
अहं जीवो भ्रमन् लोके कर्ममार्गेण चालितः।
न मे जातिर्न मे धर्मो न कुलं नापि निश्चितम्॥
जन्मजन्मान्तरं याति कर्मवायुवशानुगः।
नानारूपधरो जीवो नान्तमस्य गतौ लभेत्॥
कदाचित् मानवो भूत्वा नभः पश्यामि विस्मितः।
कदाचित् पशुरूपेण वृत्त्या तिष्ठामि वञ्चितः॥
पुनर्मानुषतां याति कालचक्रप्रवर्तितः।
नानारूपाणि धारयन् संसारार्णवे वर्तते॥
देशाद् देशं प्रव्रजामि न कश्चित् मे स्थिरं गृहम्।
अयं विश्वपथो दीर्घो न कदापि मम स्वगृहम्॥
कथं ब्रूयामहं गर्वात् “अयं धर्मो ममैकतः”?
यदा जीवाः सहस्रेषु पन्थान् यान्ति नानातः॥
यावत् सत्यं न पश्यामि जन्मबन्धविवर्जितम्।
न मे जातिर्न मे धर्मो न देशो न सुहृदः मम॥
★
कालधर्मः
सृष्टि-स्थिति-प्रलयः भवति नित्यं,
इत्यस्य संसारचक्रस्य नियमः।
ब्रह्मा सृष्टिं करोति नित्यम्,
विष्णुः पालयते जगतः सुखम्।
कालः प्रलयं करोति च नित्यम्,
इत्यस्य संसारचक्रस्य नियमः।
★
कालचक्रम्-समयचक्रम्
(मुक्तछन्दः)
न कश्चिद् लभते सिद्धिं कालेन विना क्वचित्,
न कश्चिद् वर्धते लोके कालेन विना क्वचित्॥
काले बीजं प्रसूयते, काले पुष्पं प्ररोहति,
काले फलमवाप्नोति, काले सर्वं प्रवर्धते॥
केचित् शीघ्रं प्रकाशन्ते, केचित् शनैः प्रवर्धन्ते,
न कालः कञ्चन बाधते, स्वमार्गेणैव प्रवर्तते॥
यदा समयः समायाति, तदा भाग्यं प्रबुध्यते,
अकाले कृतमप्यर्थं निष्फलं सम्प्रपद्यते॥ ४॥
मा धाव, मा विषीद त्वं, कालं प्रतीक्षस्व धीरवत्,
स्वकाले सिद्धिमायान्ति धैर्ययुक्ताः सर्वजीवाः॥
★
अहंकारदोषः
(मुक्तछन्दः)
अहंकारो महादोषः, सहिष्णुता परो गुणः।
अहंकारे हता लङ्का, अतिदर्पे पतन्ति नराः॥
मदान्धः पतति सर्वत्र, धर्मेणैव सुखं भवेत्।
विनयेन सदा शान्तिः, धर्मयुक्तः सदा जयति॥
★
जीवस्वभावदोषः
(मुक्तछन्दः)
जीवः सहजं न इच्छति श्रोतुं सत्यधर्मम्।
जीवने सुखस्याशया करोति धर्मकर्मम्॥
यत्र जातो जीवोऽयं तदेव जगदिच्छति।
तत्रैव मोहान्नित्यं स्वजीवनमवस्थापयति॥
सर्वैरेव पीडितोऽस्मीति मन्यतेऽज्ञानविह्वलः।
परान् सर्वान् विरोधिनः पश्यत्यन्धोऽविवेकबलात्॥
न जानाति पूर्वकर्म स्वजीवनविनिर्मितम्।
न वेत्ति दैवनीतिं तु सर्वलोकनियामिनीम्॥
बान्धवान् स्वजनांश्चैव सर्वस्वमिति मन्यते।
मायाजालेन बद्धः सन् तत्रैव हि निमज्जति॥
विस्मृत्य दिव्यसंदेशं योजनाः कुरुतेऽनिशम्।
संसारार्थे निमग्नोऽयं न पश्यति परं पदम्॥
एष दोषो महान् जीवस्य भ्रमकारकः।
विस्मरत्यात्मनः कर्म सर्वबन्धविनाशकम्॥
★
न तुलनम् कदाचन
(मुक्तछन्दः)
न हि द्वौ जीवौ समरूपौ कदाचन,
न हि द्वे जीवने समरूपे कदाचन॥
न हि मार्गौ द्वौ समानौ कदाचन,
स्वमार्गे गच्छति जनः प्रतिदिनम्॥
भिन्नाः कथाः सुखदुःखसमन्विताः,
न कदापि ताः भवन्ति समरूपाः॥
केचित् शनैः यान्ति, केचित् च शीघ्रम्,
भिन्नजीवाः दर्शयन्ति स्ववैभवम्॥
स्वकाले प्रस्फुरति जीवः स्वरूपम्,
शान्तचित्तः स्वगीतं गायति स्वयम्॥
मा तुलय, मा विषीद कदाचन,
स्वजीवनं वहति दैवात् सुस्थितम्॥
★
तृष्णादोषः (तुलना-इच्छा-संबन्धः)
(मुक्तछन्दः)
परद्रव्ये दृष्टिपाते, जायते तृष्णा मनसि।
तुलनाया प्रवाहेण, नश्यति शान्तिः मनसि॥
अन्येषां वैभवं दृष्ट्वा, वर्धते कामना दृढा।
स्वसन्तोषं परित्यज्य, धावति चित्तं दृढा॥
तुलना दुःखहेतुः स्यात्, तृष्णा दुःखस्य कारणम्।
एतयोः सङ्गमेनैव, भवति क्लेशकारणम्॥
यः त्यजेत् तुलनां लोके, सन्तोषं धारयेत् हृदि।
तस्य नश्यति तृष्णैव, शान्तिः वसति हृदि॥
☆
जीवस्य अन्त्यप्रार्थना
(मुक्त छन्द)
मम शक्तिरियं क्षीणा, आशाप्यन्ते समाप्ता।
अन्ते सर्वं विनष्टं मे, नाथ त्वां शरणागतः॥
जन्मऋणं समाप्याहं त्वामहं ह्वये नाथम्।
कोले गृहाण मां दीनं, त्वं करुणामयः प्रभो॥
अस्मिन् लोके न कोऽप्यस्ति सत्यस्नेहपरायणः।
न कश्चिदिह जानाति प्रेम्णो मार्गमनन्तकम्॥
यत्र शुद्धः स्नेहभावो नित्यं मधुरसञ्चितः।
तत्र गन्तुमिहेच्छामि, नाथ त्वां शरणागतः॥
बहुदग्धोऽस्मि दुःखेन, कामजालात् विमुक्तः।
वैराग्येण दग्धचित्तः सर्वसङ्गविवर्जितः॥
बहु रुदितवान् पूर्वं, न शक्नोम्यद्य रोधनम्।
भिन्नहृदयोऽहमेकाकी, नाथ त्वां शरणागतः॥



